|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.281. अध्यायः 281
Mahabharata - Vana Parva - Chapter Topics
रामण सुग्रीवेण सख्यकरणपूर्वकं वालिहननम् ॥ 1 ॥ रावणेनाशोकवने सीतानिवेशनपूर्वकं तद्वशीकरणाय राक्षसीनां नियोजनम् ॥ 2 ॥ तत्र त्रिजटया रामरावणयोरिष्टानिष्टसूचकस्वदृष्टस्वाप्नप्रकारकथनेन सीतायाः परिसान्त्वनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-281-0x(2706)(26703)
ततोऽविदूरे नलिनीं रप्रभूतकमलोत्पलाम्।
सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥ 3-281-1(26704)
मारुतेन सुशीतेन सुखेनामृतगन्धिना।
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥ 3-281-2(26705)
विललाप सराजेन्द्रस्तत्रकान्तानुस्मरन्।
कामबाणाभिसंतप्तं सौमित्रिस्तमथाब्रवीत् ॥ 3-281-3(26706)
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद।
आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम् ॥ 3-281-4(26707)
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥ 3-281-5(26708)
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ 3-281-6(26709)
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥ 3-281-7(26710)
निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि।
प्रतस्थतुरभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥ 3-281-8(26711)
तावृश्यमूकमभ्येत्य बहुमूलफलद्रुमम्।
गिर्यग्रे वानरान्पञ्वीरौ ददृशतुस्तदा ॥ 3-281-9(26712)
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥ 3-281-10(26713)
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः।
रसख्यं वानरराजेन चक्रे रामस्तदा नृप ॥ 3-281-11(26714)
`ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम्।
दुःखमाख्यातवान्सर्वं रामायामिततेजसे' ॥ 3-281-12(26715)
तद्वासो दर्शयामास तस् कार्ये निवेदिते।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत् ॥ 3-281-13(26716)
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्।
पृथिव्यां वानरैश्वर्ये स्वयंरामोऽभ्यषेचयत् ॥ 3-281-14(26717)
प्रतिजज्ञे चकाकुत्स्थः समरे वालिनो वधम्।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥ 3-281-15(26718)
इत्येवं समयं कृत्वाविश्वास्य च परस्परम्।
अभ्येत्य सर्वकिष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥ 3-281-16(26719)
सुग्रीवः प्राप्यकिष्किन्धां ननादौघनिभस्वनः।
नसाय् तन्ममृषे वाली तारा तं प्रत्यषेधयत् ॥ 3-281-17(26720)
यथानदतिसुग्रीवो बलवानेष वानरः।
मन्ये चाश्रयवान्प्राप्तो न त्वं निष्क्रान्तुमर्हसि ॥ 3-281-18(26721)
हेममाली ततो वाली तारां ताराधिपाननाम्।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ 3-281-19(26722)
सर्वभूतरुतज्ञा शृणु सर्वं कपीश्वर ॥
केन चाश्रयवान्प्राप्तो ममैप भ्रातृगन्धिकः ॥ 3-281-20(26723)
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा।
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥ 3-281-21(26724)
हृतदारो महासत्वोरामो दशरथात्मजः।
रतुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥ 3-281-22(26725)
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥ 3-281-23(26726)
मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥ 3-281-24(26727)
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः।
अलं तव विनाशाय रामवीर्यव्यपाश्रयाः ॥ 3-281-25(26728)
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥ 3-281-26(26729)
तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात्।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोभ्यभाषत ॥ 3-281-27(26730)
असकृत्त्वं मया क्लीव निर्जितो जीवितप्रियः।
मुक्तो गच्छसि दुर्बुद्धे कथंकारं रणे पुनः ॥ 3-281-28(26731)
इत्युक्तः प्राहसुग्रीवो भ्रातरं हेतुमद्वचः।
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव ॥ 3-281-29(26732)
हृतराज्यस्य मे राजन्हृतदारस्य च त्वया।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम् ॥ 3-281-30(26733)
एवमुक्त्वाबहुविधं ततस्तौ सन्निपेततुः।
समरे वालिसुग्रीवौ सालतालशिलायुधौ ॥ 3-281-31(26734)
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥ 3-281-32(26735)
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥ 3-281-33(26736)
न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते।
सुग्रीवस् तदा मालां हनुमान्कण्ठ आसजत् ॥ 3-281-34(26737)
स मालया तदा वीरः शुशुभे कण्ठसक्तया।
श्रीमानिव महाशैलो मलयो मेघमालया ॥ 3-281-35(26738)
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः।
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्षयन् ॥ 3-281-36(26739)
विष्फारस्तस् धनुषो यन्त्रस्येव तदा बभौ।
वितत्रास तदा वाली शरेणाभिहतो हृदि ॥ 3-281-37(26740)
स भिन्नहृदयो वाली वक्राच्छोणितमुद्वमन्।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह ॥ 3-281-38(26741)
गर्हयित्वास काकुत्स्थं पपात भुवि मूर्च्छितः।
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥ 3-281-39(26742)
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत।
तां तारापतिमुखीं तारां निपतितेश्वराम् ॥ 3-281-40(26743)
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे।
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥ 3-281-41(26744)
रावणोऽपिपुरीं गत्वालङ्कां कामबलात्कृतः।
सीतां निवेशयामास भवने नन्दनोपमे ॥ 3-281-42(26745)
अशोकवनिकाभ्यासे तापसास्रमसन्निभे।
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ॥ 3-281-43(26746)
उपवासतपःशीला ततः सा पृथुलेक्षणा।
उवास दुःखवसतिं फलमूलकृताशना ॥ 3-281-44(26747)
दिदेश राक्षसीस्तत्ररक्षणे राक्षसाधिपः।
प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥ 3-281-45(26748)
द्व्यक्षीं त्र्यक्षीं ललाटक्षीं दीर्घजिह्वामजिह्विकाम्।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥ 3-281-46(26749)
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥ 3-281-47(26750)
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः ॥ 3-281-48(26751)
खादाम पाटयामैनां तिलशः प्रविभज्यताम्।
येयं भर्तारमस्माकमवमत्येह जीवति ॥ 3-281-49(26752)
इत्येवं परिभर्त्सन्तीस्त्रासयानाः पुनः पुनः।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥ 3-281-50(26753)
आर्याः खादत मां शीघ्रं न मे लोभोस्ति जीविते।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥ 3-281-51(26754)
अद्यैवाहं निराहारा जीवितप्रियवर्जिता।
शोषयिष्यामि गात्राणि बल्ली तलगता यथा ॥ 3-281-52(26755)
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते।
इति जानीत सत्यं मेक्रियतां यदनन्तरम् ॥ 3-281-53(26756)
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः।
आख्यातुं राक्षसेन्द्राय जन्मुस्तत्सर्वमादितः ॥ 3-281-54(26757)
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥ 3-281-55(26758)
सीते वक्ष्यामि ते किंचिद्विश्वासं करु मे सखि।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम ॥ 3-281-56(26759)
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः।
स रामस्य हितान्वेषी त्वदर्थे मामचूचुदत् ॥ 3-281-57(26760)
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च।
भर्ता तेकुशली रामोलक्ष्मणानुगतो बली ॥ 3-281-58(26761)
सख्यं वानरराजेन शक्रप्रतिमतेजसा।
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥ 3-281-59(26762)
मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात्।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि ॥ 3-281-60(26763)
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्।
न शक्रोत्यवशां नारीमुपैतुमजितेन्द्रियः ॥ 3-281-61(26764)
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥ 3-281-62(26765)
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः।
विनाशायास्य दुर्बुद्धेः पौलस्त्यस्य कुलस्य च ॥ 3-281-63(26766)
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥ 3-281-64(26767)
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः।
मया विनासलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥ 3-281-65(26768)
तैलाभिषिक्तो विकचो मज्जनप्के दशाननः।
असकृत्स्वरयुक्ते तु रथे नृत्यन्निव स्थितः ॥ 3-281-66(26769)
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥ 3-281-67(26770)
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः।
श्वेतपर्वतमारूढ एक एव विभीषणः ॥ 3-281-68(26771)
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥ 3-281-69(26772)
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ 3-281-70(26773)
हस्तिसक्थिसमारूढो भुञ्जानो मधुपायसम्।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम् ॥ 3-281-71(26774)
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥ 3-281-72(26775)
हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता।
राघवेण सहभ्रात्रा सीते त्वमचिरादिव ॥ 3-281-73(26776)
इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः।
बभूवाशावती बाला पुनर्भर्तृसमागमे ॥ 3-281-74(26777)
तावदभ्यागता रौद्र्यः पिशाच्यस्ताःसुदारुणाः।
ददृशुस्तां त्रिजटया सहासीनां यथापुरम् ॥ 3-281-75(26778)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः ॥ 281 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-281- अविदूरे समीपे। नलिनीं पुष्करिणीम् ॥ 3-281-2 अमृतगन्धिनाऽमृतसदृशेन ॥ 3-281-5 उपपादय सफलीकुरु ॥ 3-281-7 अनन्तरः संलग्नुः ॥ 3-281-9 ऋश्यमूकं पर्वतम् ॥ 3-281-17 ओघो जनवृन्दस्तन्निभः स्वनो यस्य ॥ 3-281-18 आश्रयवान् परबलाश्रितः ॥ 3-281-26 ईर्षुरीर्ष्यालुः ॥ 3-281-28 मुक्तो गच्छसि दुर्बुद्धे कथं घोरे पुनरिति क. पाठः। मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः इति झ. पाठः ॥ 3-281-30 जीवितसामर्थ्यं जीवनस्य श्लाप्यत्वम् ॥ 3-281-47 करभोत्कटमूर्धजाः उष्ट्रसदृशकेश्यः ॥ 3-281-48 परुषव्यञ्जनखरात्मकाः शब्दा यासां ताः ॥ 3-281-52 व्याली तालगता ययेति ख.झ.पाठः ॥ 3-281-61 वधूं स्रुषाम् ॥ 3-281-70 परिक्षिप्ता व्याप्ता ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|