(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.281. अध्यायः 281
Mahabharata - Vana Parva - Chapter Topics
रामण सुग्रीवेण सख्यकरणपूर्वकं वालिहननम् ॥ 1 ॥ रावणेनाशोकवने सीतानिवेशनपूर्वकं तद्वशीकरणाय राक्षसीनां नियोजनम् ॥ 2 ॥ तत्र त्रिजटया रामरावणयोरिष्टानिष्टसूचकस्वदृष्टस्वाप्नप्रकारकथनेन सीतायाः परिसान्त्वनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-281-0x(2706)(26703)
ततोऽविदूरे नलिनीं रप्रभूतकमलोत्पलाम्।
सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥ 3-281-1(26704)
मारुतेन सुशीतेन सुखेनामृतगन्धिना।
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥ 3-281-2(26705)
विललाप सराजेन्द्रस्तत्रकान्तानुस्मरन्।
कामबाणाभिसंतप्तं सौमित्रिस्तमथाब्रवीत् ॥ 3-281-3(26706)
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद।
आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम् ॥ 3-281-4(26707)
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥ 3-281-5(26708)
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ 3-281-6(26709)
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥ 3-281-7(26710)
निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि।
प्रतस्थतुरभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥ 3-281-8(26711)
तावृश्यमूकमभ्येत्य बहुमूलफलद्रुमम्।
गिर्यग्रे वानरान्पञ्वीरौ ददृशतुस्तदा ॥ 3-281-9(26712)
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥ 3-281-10(26713)
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः।
रसख्यं वानरराजेन चक्रे रामस्तदा नृप ॥ 3-281-11(26714)
`ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम्।
दुःखमाख्यातवान्सर्वं रामायामिततेजसे' ॥ 3-281-12(26715)
तद्वासो दर्शयामास तस् कार्ये निवेदिते।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत् ॥ 3-281-13(26716)
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्।
पृथिव्यां वानरैश्वर्ये स्वयंरामोऽभ्यषेचयत् ॥ 3-281-14(26717)
प्रतिजज्ञे चकाकुत्स्थः समरे वालिनो वधम्।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥ 3-281-15(26718)
इत्येवं समयं कृत्वाविश्वास्य च परस्परम्।
अभ्येत्य सर्वकिष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥ 3-281-16(26719)
सुग्रीवः प्राप्यकिष्किन्धां ननादौघनिभस्वनः।
नसाय् तन्ममृषे वाली तारा तं प्रत्यषेधयत् ॥ 3-281-17(26720)
यथानदतिसुग्रीवो बलवानेष वानरः।
मन्ये चाश्रयवान्प्राप्तो न त्वं निष्क्रान्तुमर्हसि ॥ 3-281-18(26721)
हेममाली ततो वाली तारां ताराधिपाननाम्।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ 3-281-19(26722)
सर्वभूतरुतज्ञा शृणु सर्वं कपीश्वर ॥
केन चाश्रयवान्प्राप्तो ममैप भ्रातृगन्धिकः ॥ 3-281-20(26723)
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा।
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥ 3-281-21(26724)
हृतदारो महासत्वोरामो दशरथात्मजः।
रतुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥ 3-281-22(26725)
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥ 3-281-23(26726)
मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥ 3-281-24(26727)
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः।
अलं तव विनाशाय रामवीर्यव्यपाश्रयाः ॥ 3-281-25(26728)
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥ 3-281-26(26729)
तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात्।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोभ्यभाषत ॥ 3-281-27(26730)
असकृत्त्वं मया क्लीव निर्जितो जीवितप्रियः।
मुक्तो गच्छसि दुर्बुद्धे कथंकारं रणे पुनः ॥ 3-281-28(26731)
इत्युक्तः प्राहसुग्रीवो भ्रातरं हेतुमद्वचः।
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव ॥ 3-281-29(26732)
हृतराज्यस्य मे राजन्हृतदारस्य च त्वया।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम् ॥ 3-281-30(26733)
एवमुक्त्वाबहुविधं ततस्तौ सन्निपेततुः।
समरे वालिसुग्रीवौ सालतालशिलायुधौ ॥ 3-281-31(26734)
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥ 3-281-32(26735)
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥ 3-281-33(26736)
न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते।
सुग्रीवस् तदा मालां हनुमान्कण्ठ आसजत् ॥ 3-281-34(26737)
स मालया तदा वीरः शुशुभे कण्ठसक्तया।
श्रीमानिव महाशैलो मलयो मेघमालया ॥ 3-281-35(26738)
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः।
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्षयन् ॥ 3-281-36(26739)
विष्फारस्तस् धनुषो यन्त्रस्येव तदा बभौ।
वितत्रास तदा वाली शरेणाभिहतो हृदि ॥ 3-281-37(26740)
स भिन्नहृदयो वाली वक्राच्छोणितमुद्वमन्।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह ॥ 3-281-38(26741)
गर्हयित्वास काकुत्स्थं पपात भुवि मूर्च्छितः।
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥ 3-281-39(26742)
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत।
तां तारापतिमुखीं तारां निपतितेश्वराम् ॥ 3-281-40(26743)
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे।
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥ 3-281-41(26744)
रावणोऽपिपुरीं गत्वालङ्कां कामबलात्कृतः।
सीतां निवेशयामास भवने नन्दनोपमे ॥ 3-281-42(26745)
अशोकवनिकाभ्यासे तापसास्रमसन्निभे।
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ॥ 3-281-43(26746)
उपवासतपःशीला ततः सा पृथुलेक्षणा।
उवास दुःखवसतिं फलमूलकृताशना ॥ 3-281-44(26747)
दिदेश राक्षसीस्तत्ररक्षणे राक्षसाधिपः।
प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥ 3-281-45(26748)
द्व्यक्षीं त्र्यक्षीं ललाटक्षीं दीर्घजिह्वामजिह्विकाम्।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥ 3-281-46(26749)
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥ 3-281-47(26750)
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः ॥ 3-281-48(26751)
खादाम पाटयामैनां तिलशः प्रविभज्यताम्।
येयं भर्तारमस्माकमवमत्येह जीवति ॥ 3-281-49(26752)
इत्येवं परिभर्त्सन्तीस्त्रासयानाः पुनः पुनः।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥ 3-281-50(26753)
आर्याः खादत मां शीघ्रं न मे लोभोस्ति जीविते।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥ 3-281-51(26754)
अद्यैवाहं निराहारा जीवितप्रियवर्जिता।
शोषयिष्यामि गात्राणि बल्ली तलगता यथा ॥ 3-281-52(26755)
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते।
इति जानीत सत्यं मेक्रियतां यदनन्तरम् ॥ 3-281-53(26756)
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः।
आख्यातुं राक्षसेन्द्राय जन्मुस्तत्सर्वमादितः ॥ 3-281-54(26757)
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥ 3-281-55(26758)
सीते वक्ष्यामि ते किंचिद्विश्वासं करु मे सखि।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम ॥ 3-281-56(26759)
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः।
स रामस्य हितान्वेषी त्वदर्थे मामचूचुदत् ॥ 3-281-57(26760)
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च।
भर्ता तेकुशली रामोलक्ष्मणानुगतो बली ॥ 3-281-58(26761)
सख्यं वानरराजेन शक्रप्रतिमतेजसा।
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥ 3-281-59(26762)
मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात्।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि ॥ 3-281-60(26763)
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्।
न शक्रोत्यवशां नारीमुपैतुमजितेन्द्रियः ॥ 3-281-61(26764)
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥ 3-281-62(26765)
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः।
विनाशायास्य दुर्बुद्धेः पौलस्त्यस्य कुलस्य च ॥ 3-281-63(26766)
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥ 3-281-64(26767)
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः।
मया विनासलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥ 3-281-65(26768)
तैलाभिषिक्तो विकचो मज्जनप्के दशाननः।
असकृत्स्वरयुक्ते तु रथे नृत्यन्निव स्थितः ॥ 3-281-66(26769)
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥ 3-281-67(26770)
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः।
श्वेतपर्वतमारूढ एक एव विभीषणः ॥ 3-281-68(26771)
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥ 3-281-69(26772)
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ 3-281-70(26773)
हस्तिसक्थिसमारूढो भुञ्जानो मधुपायसम्।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम् ॥ 3-281-71(26774)
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥ 3-281-72(26775)
हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता।
राघवेण सहभ्रात्रा सीते त्वमचिरादिव ॥ 3-281-73(26776)
इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः।
बभूवाशावती बाला पुनर्भर्तृसमागमे ॥ 3-281-74(26777)
तावदभ्यागता रौद्र्यः पिशाच्यस्ताःसुदारुणाः।
ददृशुस्तां त्रिजटया सहासीनां यथापुरम् ॥ 3-281-75(26778)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः ॥ 281 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-281- अविदूरे समीपे। नलिनीं पुष्करिणीम् ॥ 3-281-2 अमृतगन्धिनाऽमृतसदृशेन ॥ 3-281-5 उपपादय सफलीकुरु ॥ 3-281-7 अनन्तरः संलग्नुः ॥ 3-281-9 ऋश्यमूकं पर्वतम् ॥ 3-281-17 ओघो जनवृन्दस्तन्निभः स्वनो यस्य ॥ 3-281-18 आश्रयवान् परबलाश्रितः ॥ 3-281-26 ईर्षुरीर्ष्यालुः ॥ 3-281-28 मुक्तो गच्छसि दुर्बुद्धे कथं घोरे पुनरिति क. पाठः। मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः इति झ. पाठः ॥ 3-281-30 जीवितसामर्थ्यं जीवनस्य श्लाप्यत्वम् ॥ 3-281-47 करभोत्कटमूर्धजाः उष्ट्रसदृशकेश्यः ॥ 3-281-48 परुषव्यञ्जनखरात्मकाः शब्दा यासां ताः ॥ 3-281-52 व्याली तालगता ययेति ख.झ.पाठः ॥ 3-281-61 वधूं स्रुषाम् ॥ 3-281-70 परिक्षिप्ता व्याप्ता ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.